Thursday, 4 December 2025

श्रीदत्तात्रेयवज्रकवचम्

श्रीदत्तात्रेयवज्रकवचम्

          श्रीगणेशाय नमः ।

        श्रीदत्तात्रेयाय नमः ।

ऋषय ऊचुः ।

कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे ।

धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ १॥


व्यास उवाच ।

श‍ृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् ।

सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥ २॥


गौरीश‍ृङ्गे हिमवतः कल्पवृक्षोपशोभितम् ।

दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम् ॥ ३॥


रत्नसिंहासनासिनं प्रसन्नं परमेश्वरम् ।

मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥ ४॥


श्रीदेव्युवाच ।

देवदेव महादेव लोकशङ्कर शङ्कर ।

मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नशः ॥ ५॥


तन्त्रजालान्यनेकानि मया त्वत्तः श्रुतानि वै ।

इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम् ॥ ६॥


इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वरः ।

करेणामृज्य सन्तोषात्पार्वतीं प्रत्यभाषत ॥ ७॥


मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते ।

इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्करः ॥ ८॥


ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् ।

क्वचित् विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे ॥ ९॥


तत्र व्याहर्तुमायान्तं भिल्लं परशुधारिणम् ।

वर्ध्यमानं महाव्याघ्रं नखदंष्ट्राभिरावृतम् ॥ १०॥


अतीव चित्रचारित्र्यं वज्रकायसमायुतम् ।

अप्रयत्नमनायासमखिलं सुखमास्थितम् ॥ ११॥


पलायन्तं मृगं पश्चाद्व्याघ्रो भीत्या पलायितः ।

एतदाश्चर्यमालोक्य पार्वती प्राह शङ्करम् ॥ १२॥


श्रीपार्वत्युवाच ।

किमाश्चर्यं किमाश्चर्यमग्रे शम्भो निरीक्ष्यताम् ।

इत्युक्तः स ततः शम्भुर्दृष्ट्वा प्राह पुराणवित् ॥ १३॥


श्रीशङ्कर उवाच ।

गौरि वक्ष्यामि ते चित्रमवाङ्मानसगोचरम् ।

अदृष्टपूर्वमस्माभिर्नास्ति किञ्चन्न कुत्रचित् ॥ १४॥


मया सम्यक् समासेन वक्ष्यते श‍ृणु पार्वति ।

अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥ १५॥


समित्कुशप्रसूनानि कन्दमूलफलादिकम् ।

प्रत्यहं विपिनं गत्वा समादाय प्रयासतः ॥ १६॥


प्रिये पूर्वं मुनीन्द्रेभ्यः प्रयच्छति न वाञ्छति ।

तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिनः ॥ १७॥


दलादनो महायोगी वसन्नेव निजाश्रमे ।

कदाचिदस्मरत् सिद्धं दत्तात्रेयं दिगम्बरम् ॥ १८॥


दत्तात्रेयः स्मर्तृगामी चेतिहासं परीक्षितुम् ।

तत्क्षणात्सोऽपि योगीन्द्रो दत्तात्रेयः समुत्थितः ॥ १९॥


तं दृष्ट्वाऽऽश्चर्यतोषाभ्यां दलादनमहामुनिः ।

सम्पूज्याग्रे निषीदन्तं दत्तात्रेयमुवाच तम् ॥ २०॥


मयोपहूतः सम्प्राप्तो दत्तात्रेय महामुने ।

स्मर्तृगामी त्वमित्येतत् किंवदन्ती परीक्षितुम् ॥ २१॥


मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे ।

दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ॥ २२॥


अभक्त्या वा सुभक्त्या वा यः स्मरेन्मामनन्यधीः ।

तदानीं तमुपागत्य ददामि तदभीप्सितम् ॥ २३॥


दत्तात्रेयो मुनिं प्राह दलादनमुनीश्वरम् ।

यदिष्टं तद्वृणीष्व त्वं यत् प्राप्तोऽहं त्वया स्मृतः ॥ २४॥


दत्तात्रेयं मुनिः प्राह मया किमपि नोच्यते ।

त्वच्चित्ते यत्स्थितं तन्मे प्रयच्छ मुनिपुङ्गव ॥ २५॥


श्रीदत्तात्रेय उवाच ।

ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् ।

तथ्येत्यङ्गीकृतवते दलादनमुनये मुनिः ॥ २६॥


स्ववज्रकवचं प्राह ऋषिच्छन्दःपुरःसरम् ।

न्यासं ध्यानं फलं तत्र प्रयोजनमशेषतः ॥ २७॥


अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमन्त्रस्य,

किरातरूपी महारुद्र ऋषिः, अनुष्टुप् छन्दः,

श्रीदत्तात्रेयो देवता, द्रां बीजं, आं शक्तिः,

क्रौं कीलकं, ॐ आत्मने नमः । ॐ द्रीं मनसे नमः ।

ॐ आं द्रीं श्रीं सौः ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः ।

श्रीदत्तात्रेयप्रसादसिद्ध्यर्थे जपे विनियोगः ॥


अथ करन्यासः ।

ॐ द्रां अङ्गुष्ठाभ्यां नमः ।

ॐ द्रीं तर्जनीभ्यां नमः ।

ॐ द्रूं मध्यमाभ्यां नमः ।

ॐ द्रैं अनामिकाभ्यां नमः ।

ॐ द्रौं कनिष्ठिकाभ्यां नमः ।

ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥


अथ हृदयादिन्यासः ।

ॐ द्रां हृदयाय नमः ।

ॐ द्रीं शिरसे स्वाहा ।

ॐ द्रूं शिखायै वषट् ।

ॐ द्रैं कवचाय हुं ।

ॐ द्रौं नेत्रत्रयाय वौषट् ।

ॐ द्रः अस्त्राय फट् ।

ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥


अथ ध्यानम् ।

जगदङ्कुरकन्दाय सच्चिदानन्दमूर्तये ।

दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने ॥ १॥


कदा योगी कदा भोगी कदा नग्नः पिशाचवत् ।

दत्तात्रेयो हरिः साक्षाद्भुक्तिमुक्तिप्रदायकः ॥ २॥


वाराणसीपुरस्नायी कोल्हापुरजपादरः ।

माहुरीपुरभिक्षाशी सह्यशायी दिगम्बर ॥ ३॥


इन्द्रनीलसमाकारश्चन्द्रकान्तिसमद्युतिः ।

वैडुर्यसदृशस्फूर्तिश्चलत्किञ्चिज्जटाधरः ॥ ४॥


स्निग्धधावल्ययुक्ताक्षोऽत्यन्तनीलकनीनिकः ।

भ्रूवक्षःश्मश्रुनीलाङ्कः सशाङ्कसदृशाननः ॥ ५॥


हासनिर्जितनीहारः कण्ठनिर्जितकम्बुकः ।

मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥ ६॥


विशालपीनवक्षाश्च ताम्रपाणिर्दलोदरः ।

पृथुलश्रोणिललितो विशालजघनस्थलः ॥ ७॥


रम्भास्तम्भोपमानोरुर्जानुपूर्वैकजङ्घकः ।

गूढगुल्फः कूर्मपृष्ठोलसत्पादोषरिस्थलः ॥ ८॥


रक्तारविन्दसदृशरमणीयपदाधरः ।

चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे ॥ ९॥


ज्ञानोपदेशनीरतो विपद्धरणदीक्षितः ।

सिद्धासनसमासीन ऋजुकायो हसन्मुखः ॥ १०॥


वामहस्तेन वरदो दक्षिणेनाभयङ्करः ।

बालोन्मत्तपिशाचीभिः क्वचिद्युक्तः परीक्षितः ॥ ११॥


त्यागी भोगी महायोगी नित्यानन्दो निरञ्जनः ।

सर्वरूपी सर्वदाता सर्वगः सर्वकामदः ॥ १२॥


भस्मोद्धूलितसर्वाङ्गो महापातकनाशनः ।

भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशयः ॥ १३॥


एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत् ।

मामेव पश्यन्सर्वत्र स मया सह सङ्चरेत् ॥ १४॥


दिगम्बरं भस्मसुगन्धलेपनं चक्रं त्रिशूलं डमरुं गदायुधम् ।

पद्मासनं योगिमुनीन्द्रवन्दितं दत्तेति नामस्मरणेन नित्यम् ॥ १५॥


(अथ पञ्चोपचारैः संपूज्य ॐ द्रां इति अष्टोत्तरशतवारं जपेत्)

ॐ द्राम् ।


अथ कवचम् ।

ॐ दत्तात्रेयः शिरः पातु सहस्राब्जेषु संस्थितः ।

भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यगः ॥ १॥


कूर्चं मनोमयः पातु हं क्षं द्विदलपद्मभूः ।

ज्योतिरूपोऽक्षिणी पातु पातु शब्दात्मकः श्रुती ॥ २॥


नासिकां पातु गन्धात्मा मुखं पातु रसात्मकः ।

जिह्वां वेदात्मकः पातु दन्तोष्ठौ पातु धार्मिकः ॥ ३॥


कपोलावत्रिभूः पातु पात्वशेषं ममात्ववित् ।

स्वरात्मा षोडशाराब्जस्थितः स्वात्माऽवताद्गलम् ॥ ४॥


स्कन्धौ चन्द्रानुजः पातु भुजौ पातु कृतादिभूः ।

जत्रुणी शत्रुजित् पातु पातु वक्षःस्थलं हरिः ॥ ५॥


कादिठान्तद्वादशारपद्मगो मरुदात्मकः ।

योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ॥ ६॥


पार्श्वे हरिः पार्श्ववर्ती पातु पार्श्वस्थितः स्मृतः ।

हठयोगादियोगज्ञः कुक्षी पातु कृपानिधिः ॥ ७॥


डकारादिफकारान्तदशारसरसीरुहे ।

नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोऽवतु ॥ ८॥


वह्नितत्वमयो योगी रक्षतान्मणिपूरकम् ।

कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोऽवतु ॥ ९॥


बकारादिलकारान्तषट्पत्राम्बुजबोधकः । (वक्रादि)

जलतत्वमयो योगी स्वाधिष्ठानं ममावतु ॥ १०॥


सिद्धासनसमासीन ऊरू सिद्धेश्वरोऽवतु ।

वादिसान्तचतुष्पत्रसरोरुहनिबोधकः ॥ ११॥


मूलाधारं महीरूपो रक्षताद्वीर्यनिग्रही ।

पृष्ठं च सर्वतः पातु जान्युन्यस्तकराम्बुजः ॥ १२॥


जङ्घे पात्ववधूतेन्द्रः पात्वङ्घ्री तीर्थपावनः ।

सर्वाङ्गं पातु सर्वात्मा रोमाण्यवतु केशवः ॥ १३॥


चर्म चर्माम्बरः पातु रक्तं भक्तिप्रियोऽवतु ।

मांसं मांसकरः पातु मज्जां मज्जात्मकोऽवतु ॥ १४॥


अस्थीनि स्थिरधीः पायान्मेधां वेधाः प्रपालयेत् ।

शुक्रं सुखकरः पातु चित्तं पातु दृढाकृतिः ॥ १५॥


मनोबुद्धिमहङ्कारं हृषीकेशात्मकोऽवतु ।

कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ १६॥


बन्धून् बन्धूत्तमः पायाच्छत्रुभ्यः पातु शत्रुजित् ।

गृहारामधनक्षेत्रपुत्रादीञ्छङ्करोऽवतु ॥ १७॥


भार्यां प्रकृतिवित् पातु पश्वादीन्पातु शार्ङ्गभृत् ।

प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्करः ॥ १८॥


सुखं चन्द्रात्मकः पातु दुःखात् पातु पुरान्तकः ।

पशून्पशूपतिः पातु भूतिं भूतेश्वरो मम ॥ १९॥


प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः ।

याम्यां धर्मात्मकः पातु नैरृत्यां सर्ववैरिहृत् ॥ २०॥


वराहः पातु वारुण्यां वायव्यां प्राणदोऽवतु ।

कौबेर्यां धनदः पातु पात्वैशान्यां महागुरुः ॥ २१॥


ऊर्ध्वं पातु महासिद्धः पात्वधस्ताज्जटाधरः ।

रक्षाहीनं तु यत्स्थानं रक्षत्वादिमुनीश्वरः ॥ २२॥


ॐ द्राम् । मालामन्त्रजपः ।

(पुनः) 

अथ करन्यासः ।

ॐ द्रां अङ्गुष्ठाभ्यां नमः ।

ॐ द्रीं तर्जनीभ्यां नमः ।

ॐ द्रूं मध्यमाभ्यां नमः ।

ॐ द्रैं अनामिकाभ्यां नमः ।

ॐ द्रौं कनिष्ठिकाभ्यां नमः ।

ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥


अथ हृदयादिन्यासः ।

ॐ द्रां हृदयाय नमः ।

ॐ द्रीं शिरसे स्वाहा ।

ॐ द्रूं शिखायै वषट् ।

ॐ द्रैं कवचाय हुं ।

ॐ द्रौं नेत्रत्रयाय वौषट् ।

ॐ द्रः अस्त्राय फट् ।

ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥


एतन्मे वज्रकवचं यः पठेच्छृणुयादपि ।

वज्रकायश्चिरञ्जीवी दत्तात्रेयोऽहमब्रुवम् ॥ २३॥


त्यागी भोगी महायोगी सुखदुःखविवर्जितः ।

सर्वत्रसिद्धसङ्कल्पो जीवन्मुक्तोऽद्य वर्तते ॥ २४॥


इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बरः ।

दलादनोऽपि तज्जप्त्वा जीवन्मुक्तः स वर्तते ॥ २५॥


भिल्लो दूरश्रवा नाम तदानीं श्रुतवादिनम् ।

सकृच्छ्रवणमात्रेण वज्राङ्गोऽभवदप्यसौ ॥ २६॥


इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिनः ।

श्रुत्वाशेषं शम्भुमुखात् पुनरप्याह पार्वती ॥ २७॥


पार्वत्युवाच ।

एतत्कवचमाहात्म्यं वद विस्तरतो मम ।

कुत्र केन कदा जाप्यं किं यजाप्यं कथं कथम् ॥ २८॥


उवाच शम्भुस्तत्सर्वं पार्वत्या विनयोदितम् ।

श्रीशिव उवाच ।

श्रुणु पार्वति वक्ष्यामि समाहितमनाविलम् ॥ २९॥


धर्मार्थकाममोक्षाणामिदमेव परायणम् ।

हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम् ॥ ३०॥


पुत्रमित्रकलत्रादिसर्वसन्तोषसाधनम् ।

वेदशास्त्रादिविद्यानां निधानं परमं हि तत् ॥ ३१॥


सङ्गीतशास्त्रसाहित्यसत्कवित्वविधायकम् ।

बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम् ॥ ३२॥


सर्वसन्तोषकरणं सर्वदुःखनिवारणम् ।

शत्रु संहारकं शीघ्रं यशःकीर्तिविवर्धनम् ॥ ३३॥


अष्टसंख्या महारोगाः सन्निपातास्त्रयोदश ।

षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगकाः ॥ ३४॥


अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि ।

अशीतिर्वातरोगाश्च चत्वारिशत्तु पैत्तिकाः ॥ ३५॥


विंशतिश्लेष्मरोगाश्च क्षयचातुर्थिकादयः ।

मन्त्रयन्त्रकुयोगाद्याः कल्पतन्त्रादिनिर्मिताः ॥ ३६॥


ब्रह्मराक्षसवेतालकूष्माण्डादिग्रहोद्भवाः ।

सङ्गजाः देशकालस्थास्तापत्रयसमुत्थिताः ॥ ३७॥


नवग्रहसमुद्भूता महापातकसम्भवाः ।

सर्वे रोगाः प्रणश्यन्ति सहस्रावर्तनाद्ध्रुवम् ॥ ३८॥


अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत् ।

अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत् ॥ ३९॥


अयुतत्रितयाच्चैव खेचरत्वं प्रजायते ।

सहस्रादयुतादर्वाक् सर्वकार्याणि साधयेत् ॥ ४०॥


लक्षावृत्या कार्यसिद्धिर्भवेत्येव न संशयः ॥ ४१॥


विषवृक्षस्य मूलेषु तिष्ठन् वै दक्षिणामुखः ।

कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम् ॥ ४२॥


औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते ।

श्रीवक्षमूले श्रीकामी तिन्तिणी शान्तिकर्मणि ॥ ४३॥


ओजस्कामोऽश्वत्थमूले स्त्रीकामैः सहकारके ।

ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभिः ॥ ४४॥


धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ।

देवालये सर्वकामैस्तत्काले सर्वदर्शितम् ॥ ४५॥


नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ।

युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् ॥ ४६॥


कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् ।

ज्वरापस्मारकुष्ठादितापज्वरनिवारणम् ॥ ४७॥


यत्र यत्स्यात्स्थिरं यद्यत्प्रसन्नं तन्निवर्तते ।

तेन तत्र हि जप्तव्यं ततः सिद्धिर्भवेद्ध्रुवम् ॥ ४८॥


इत्युक्त्वान् च शिवो गौर्ये रहस्यं परमं शुभम् ।

यः पठेत् वज्रकवचं दत्तात्रेयोसमो भवेत् ॥ ४९॥


एवं शिवेन कथितं हिमवत्सुतायै

      प्रोक्तं दलादमुनयेऽत्रिसुतेनपूर्वम् ।

यः कोऽपि वज्रकवचं पठतीह लोके

      दत्तोपमश्चरति योगिवरश्चिरायुः ॥ ५०॥


॥ इति श्रीरुद्रयामले हिमवत्खण्डे मन्त्रशास्त्रे उपासनाखण्डे

शिवविजयसिद्धान्ते उमामहेश्वरसंवादे

श्रीदत्तात्रेयवज्रकवचस्तोत्रं सम्पूर्णम् ॥


॥ श्रीदत्तात्रेयार्पणमस्तु ।

No comments:

Post a Comment

Download Our Free App

श्रीदत्तात्रेयवज्रकवचम्

श्रीदत्तात्रेयवज्रकवचम्           श्रीगणेशाय नमः ।         श्रीदत्तात्रेयाय नमः । ऋषय ऊचुः । कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास क...