Wednesday, 28 March 2018

सरस्वती स्तोत्र

अगस्त्य मुनि कृत सरस्वती स्तोत्र एवम अष्टोत्तरशतनाम

★★सरस्वती स्तोत्र★★

या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युत शङ्करप्रभृतिभिर्देवैस्सदा वंदिता

सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ 1


दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभै रक्षमालान्दधाना

हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण ।

भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाज़्समाना

सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2


सुरासुरैस्सेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका ।

विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ 3


सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ।

घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ 4


सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।

विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ 5



सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।

शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥ 6



नित्यानन्दे निराधारे निष्कलायै नमो नमः ।

विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ 7



शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।

शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥ 8



मुक्तालङ्कृत सर्वाङ्ग्यै मूलाधारे नमो नमः ।

मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ 9



मनोन्मनि महाभोगे वागीश्वरि नमो नमः ।

वाग्म्यै वरदहस्तायै वरदायै नमो नमः ॥ 10



वेदायै वेदरूपायै वेदान्तायै नमो नमः ।

गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ 11



सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः ।

सम्पन्नायै कुमार्यै च सर्वज्ञे ते नमो नमः ॥ 12



योगानार्य उमादेव्यै योगानन्दे नमो नमः ।

दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ 13



अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः ।

चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥ 14



अणुरूपे महारूपे विश्वरूपे नमो नमः ।

अणिमाद्यष्टसिद्धायै आनन्दायै नमो नमः ॥ 15



ज्ञान विज्ञान रूपायै ज्ञानमूर्ते नमो नमः ।

नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ॥16



पद्मजा पद्मवंशा च पद्मरूपे नमो नमः ।

परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥ 17



महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।

ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥ 18



कमलाकरपुष्पा च कामरूपे नमो नमः ।

कपालिकर्मदीप्तायै कर्मदायै नमो नमः ॥ 19



सायं प्रातः पठेन्नित्यं षण्मासात्सिद्धिरुच्यते ।

चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥ 20



इत्थं सरस्वती स्तोत्रमगस्त्यमुनि वाचकम् ।

सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ 21


Spiritual data : www.astrotechlab.com

No comments:

Post a Comment

Download Our Free App

Ustad jhakir husen life journey

Ustad Zakir Hussain, born on March 9, 1951, in Mumbai, India, was a renowned tabla virtuoso and composer. He was the eldest son ...