Thursday, 4 December 2025

श्रीदत्तात्रेयवज्रकवचम्

श्रीदत्तात्रेयवज्रकवचम्

          श्रीगणेशाय नमः ।

        श्रीदत्तात्रेयाय नमः ।

ऋषय ऊचुः ।

कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास कलौ युगे ।

धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ १॥


व्यास उवाच ।

श‍ृण्वन्तुऋषयः सर्वे शीघ्रं सङ्कल्पसाधनम् ।

सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥ २॥


गौरीश‍ृङ्गे हिमवतः कल्पवृक्षोपशोभितम् ।

दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम् ॥ ३॥


रत्नसिंहासनासिनं प्रसन्नं परमेश्वरम् ।

मन्दस्मितमुखाम्भोजं शङ्करं प्राह पार्वती ॥ ४॥


श्रीदेव्युवाच ।

देवदेव महादेव लोकशङ्कर शङ्कर ।

मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नशः ॥ ५॥


तन्त्रजालान्यनेकानि मया त्वत्तः श्रुतानि वै ।

इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम् ॥ ६॥


इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वरः ।

करेणामृज्य सन्तोषात्पार्वतीं प्रत्यभाषत ॥ ७॥


मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते ।

इत्युक्त्वा वृषमारुह्य पार्वत्या सह शङ्करः ॥ ८॥


ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् ।

क्वचित् विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे ॥ ९॥


तत्र व्याहर्तुमायान्तं भिल्लं परशुधारिणम् ।

वर्ध्यमानं महाव्याघ्रं नखदंष्ट्राभिरावृतम् ॥ १०॥


अतीव चित्रचारित्र्यं वज्रकायसमायुतम् ।

अप्रयत्नमनायासमखिलं सुखमास्थितम् ॥ ११॥


पलायन्तं मृगं पश्चाद्व्याघ्रो भीत्या पलायितः ।

एतदाश्चर्यमालोक्य पार्वती प्राह शङ्करम् ॥ १२॥


श्रीपार्वत्युवाच ।

किमाश्चर्यं किमाश्चर्यमग्रे शम्भो निरीक्ष्यताम् ।

इत्युक्तः स ततः शम्भुर्दृष्ट्वा प्राह पुराणवित् ॥ १३॥


श्रीशङ्कर उवाच ।

गौरि वक्ष्यामि ते चित्रमवाङ्मानसगोचरम् ।

अदृष्टपूर्वमस्माभिर्नास्ति किञ्चन्न कुत्रचित् ॥ १४॥


मया सम्यक् समासेन वक्ष्यते श‍ृणु पार्वति ।

अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥ १५॥


समित्कुशप्रसूनानि कन्दमूलफलादिकम् ।

प्रत्यहं विपिनं गत्वा समादाय प्रयासतः ॥ १६॥


प्रिये पूर्वं मुनीन्द्रेभ्यः प्रयच्छति न वाञ्छति ।

तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिनः ॥ १७॥


दलादनो महायोगी वसन्नेव निजाश्रमे ।

कदाचिदस्मरत् सिद्धं दत्तात्रेयं दिगम्बरम् ॥ १८॥


दत्तात्रेयः स्मर्तृगामी चेतिहासं परीक्षितुम् ।

तत्क्षणात्सोऽपि योगीन्द्रो दत्तात्रेयः समुत्थितः ॥ १९॥


तं दृष्ट्वाऽऽश्चर्यतोषाभ्यां दलादनमहामुनिः ।

सम्पूज्याग्रे निषीदन्तं दत्तात्रेयमुवाच तम् ॥ २०॥


मयोपहूतः सम्प्राप्तो दत्तात्रेय महामुने ।

स्मर्तृगामी त्वमित्येतत् किंवदन्ती परीक्षितुम् ॥ २१॥


मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे ।

दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ॥ २२॥


अभक्त्या वा सुभक्त्या वा यः स्मरेन्मामनन्यधीः ।

तदानीं तमुपागत्य ददामि तदभीप्सितम् ॥ २३॥


दत्तात्रेयो मुनिं प्राह दलादनमुनीश्वरम् ।

यदिष्टं तद्वृणीष्व त्वं यत् प्राप्तोऽहं त्वया स्मृतः ॥ २४॥


दत्तात्रेयं मुनिः प्राह मया किमपि नोच्यते ।

त्वच्चित्ते यत्स्थितं तन्मे प्रयच्छ मुनिपुङ्गव ॥ २५॥


श्रीदत्तात्रेय उवाच ।

ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् ।

तथ्येत्यङ्गीकृतवते दलादनमुनये मुनिः ॥ २६॥


स्ववज्रकवचं प्राह ऋषिच्छन्दःपुरःसरम् ।

न्यासं ध्यानं फलं तत्र प्रयोजनमशेषतः ॥ २७॥


अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमन्त्रस्य,

किरातरूपी महारुद्र ऋषिः, अनुष्टुप् छन्दः,

श्रीदत्तात्रेयो देवता, द्रां बीजं, आं शक्तिः,

क्रौं कीलकं, ॐ आत्मने नमः । ॐ द्रीं मनसे नमः ।

ॐ आं द्रीं श्रीं सौः ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः ।

श्रीदत्तात्रेयप्रसादसिद्ध्यर्थे जपे विनियोगः ॥


अथ करन्यासः ।

ॐ द्रां अङ्गुष्ठाभ्यां नमः ।

ॐ द्रीं तर्जनीभ्यां नमः ।

ॐ द्रूं मध्यमाभ्यां नमः ।

ॐ द्रैं अनामिकाभ्यां नमः ।

ॐ द्रौं कनिष्ठिकाभ्यां नमः ।

ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥


अथ हृदयादिन्यासः ।

ॐ द्रां हृदयाय नमः ।

ॐ द्रीं शिरसे स्वाहा ।

ॐ द्रूं शिखायै वषट् ।

ॐ द्रैं कवचाय हुं ।

ॐ द्रौं नेत्रत्रयाय वौषट् ।

ॐ द्रः अस्त्राय फट् ।

ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥


अथ ध्यानम् ।

जगदङ्कुरकन्दाय सच्चिदानन्दमूर्तये ।

दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने ॥ १॥


कदा योगी कदा भोगी कदा नग्नः पिशाचवत् ।

दत्तात्रेयो हरिः साक्षाद्भुक्तिमुक्तिप्रदायकः ॥ २॥


वाराणसीपुरस्नायी कोल्हापुरजपादरः ।

माहुरीपुरभिक्षाशी सह्यशायी दिगम्बर ॥ ३॥


इन्द्रनीलसमाकारश्चन्द्रकान्तिसमद्युतिः ।

वैडुर्यसदृशस्फूर्तिश्चलत्किञ्चिज्जटाधरः ॥ ४॥


स्निग्धधावल्ययुक्ताक्षोऽत्यन्तनीलकनीनिकः ।

भ्रूवक्षःश्मश्रुनीलाङ्कः सशाङ्कसदृशाननः ॥ ५॥


हासनिर्जितनीहारः कण्ठनिर्जितकम्बुकः ।

मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥ ६॥


विशालपीनवक्षाश्च ताम्रपाणिर्दलोदरः ।

पृथुलश्रोणिललितो विशालजघनस्थलः ॥ ७॥


रम्भास्तम्भोपमानोरुर्जानुपूर्वैकजङ्घकः ।

गूढगुल्फः कूर्मपृष्ठोलसत्पादोषरिस्थलः ॥ ८॥


रक्तारविन्दसदृशरमणीयपदाधरः ।

चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे ॥ ९॥


ज्ञानोपदेशनीरतो विपद्धरणदीक्षितः ।

सिद्धासनसमासीन ऋजुकायो हसन्मुखः ॥ १०॥


वामहस्तेन वरदो दक्षिणेनाभयङ्करः ।

बालोन्मत्तपिशाचीभिः क्वचिद्युक्तः परीक्षितः ॥ ११॥


त्यागी भोगी महायोगी नित्यानन्दो निरञ्जनः ।

सर्वरूपी सर्वदाता सर्वगः सर्वकामदः ॥ १२॥


भस्मोद्धूलितसर्वाङ्गो महापातकनाशनः ।

भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशयः ॥ १३॥


एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत् ।

मामेव पश्यन्सर्वत्र स मया सह सङ्चरेत् ॥ १४॥


दिगम्बरं भस्मसुगन्धलेपनं चक्रं त्रिशूलं डमरुं गदायुधम् ।

पद्मासनं योगिमुनीन्द्रवन्दितं दत्तेति नामस्मरणेन नित्यम् ॥ १५॥


(अथ पञ्चोपचारैः संपूज्य ॐ द्रां इति अष्टोत्तरशतवारं जपेत्)

ॐ द्राम् ।


अथ कवचम् ।

ॐ दत्तात्रेयः शिरः पातु सहस्राब्जेषु संस्थितः ।

भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यगः ॥ १॥


कूर्चं मनोमयः पातु हं क्षं द्विदलपद्मभूः ।

ज्योतिरूपोऽक्षिणी पातु पातु शब्दात्मकः श्रुती ॥ २॥


नासिकां पातु गन्धात्मा मुखं पातु रसात्मकः ।

जिह्वां वेदात्मकः पातु दन्तोष्ठौ पातु धार्मिकः ॥ ३॥


कपोलावत्रिभूः पातु पात्वशेषं ममात्ववित् ।

स्वरात्मा षोडशाराब्जस्थितः स्वात्माऽवताद्गलम् ॥ ४॥


स्कन्धौ चन्द्रानुजः पातु भुजौ पातु कृतादिभूः ।

जत्रुणी शत्रुजित् पातु पातु वक्षःस्थलं हरिः ॥ ५॥


कादिठान्तद्वादशारपद्मगो मरुदात्मकः ।

योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ॥ ६॥


पार्श्वे हरिः पार्श्ववर्ती पातु पार्श्वस्थितः स्मृतः ।

हठयोगादियोगज्ञः कुक्षी पातु कृपानिधिः ॥ ७॥


डकारादिफकारान्तदशारसरसीरुहे ।

नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोऽवतु ॥ ८॥


वह्नितत्वमयो योगी रक्षतान्मणिपूरकम् ।

कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोऽवतु ॥ ९॥


बकारादिलकारान्तषट्पत्राम्बुजबोधकः । (वक्रादि)

जलतत्वमयो योगी स्वाधिष्ठानं ममावतु ॥ १०॥


सिद्धासनसमासीन ऊरू सिद्धेश्वरोऽवतु ।

वादिसान्तचतुष्पत्रसरोरुहनिबोधकः ॥ ११॥


मूलाधारं महीरूपो रक्षताद्वीर्यनिग्रही ।

पृष्ठं च सर्वतः पातु जान्युन्यस्तकराम्बुजः ॥ १२॥


जङ्घे पात्ववधूतेन्द्रः पात्वङ्घ्री तीर्थपावनः ।

सर्वाङ्गं पातु सर्वात्मा रोमाण्यवतु केशवः ॥ १३॥


चर्म चर्माम्बरः पातु रक्तं भक्तिप्रियोऽवतु ।

मांसं मांसकरः पातु मज्जां मज्जात्मकोऽवतु ॥ १४॥


अस्थीनि स्थिरधीः पायान्मेधां वेधाः प्रपालयेत् ।

शुक्रं सुखकरः पातु चित्तं पातु दृढाकृतिः ॥ १५॥


मनोबुद्धिमहङ्कारं हृषीकेशात्मकोऽवतु ।

कर्मेन्द्रियाणि पात्वीशः पातु ज्ञानेन्द्रियाण्यजः ॥ १६॥


बन्धून् बन्धूत्तमः पायाच्छत्रुभ्यः पातु शत्रुजित् ।

गृहारामधनक्षेत्रपुत्रादीञ्छङ्करोऽवतु ॥ १७॥


भार्यां प्रकृतिवित् पातु पश्वादीन्पातु शार्ङ्गभृत् ।

प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्करः ॥ १८॥


सुखं चन्द्रात्मकः पातु दुःखात् पातु पुरान्तकः ।

पशून्पशूपतिः पातु भूतिं भूतेश्वरो मम ॥ १९॥


प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः ।

याम्यां धर्मात्मकः पातु नैरृत्यां सर्ववैरिहृत् ॥ २०॥


वराहः पातु वारुण्यां वायव्यां प्राणदोऽवतु ।

कौबेर्यां धनदः पातु पात्वैशान्यां महागुरुः ॥ २१॥


ऊर्ध्वं पातु महासिद्धः पात्वधस्ताज्जटाधरः ।

रक्षाहीनं तु यत्स्थानं रक्षत्वादिमुनीश्वरः ॥ २२॥


ॐ द्राम् । मालामन्त्रजपः ।

(पुनः) 

अथ करन्यासः ।

ॐ द्रां अङ्गुष्ठाभ्यां नमः ।

ॐ द्रीं तर्जनीभ्यां नमः ।

ॐ द्रूं मध्यमाभ्यां नमः ।

ॐ द्रैं अनामिकाभ्यां नमः ।

ॐ द्रौं कनिष्ठिकाभ्यां नमः ।

ॐ द्रः करतलकरपृष्ठाभ्यां नमः ॥


अथ हृदयादिन्यासः ।

ॐ द्रां हृदयाय नमः ।

ॐ द्रीं शिरसे स्वाहा ।

ॐ द्रूं शिखायै वषट् ।

ॐ द्रैं कवचाय हुं ।

ॐ द्रौं नेत्रत्रयाय वौषट् ।

ॐ द्रः अस्त्राय फट् ।

ॐ भूर्भुवःस्वरोमिति दिग्बन्धः ॥


एतन्मे वज्रकवचं यः पठेच्छृणुयादपि ।

वज्रकायश्चिरञ्जीवी दत्तात्रेयोऽहमब्रुवम् ॥ २३॥


त्यागी भोगी महायोगी सुखदुःखविवर्जितः ।

सर्वत्रसिद्धसङ्कल्पो जीवन्मुक्तोऽद्य वर्तते ॥ २४॥


इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बरः ।

दलादनोऽपि तज्जप्त्वा जीवन्मुक्तः स वर्तते ॥ २५॥


भिल्लो दूरश्रवा नाम तदानीं श्रुतवादिनम् ।

सकृच्छ्रवणमात्रेण वज्राङ्गोऽभवदप्यसौ ॥ २६॥


इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिनः ।

श्रुत्वाशेषं शम्भुमुखात् पुनरप्याह पार्वती ॥ २७॥


पार्वत्युवाच ।

एतत्कवचमाहात्म्यं वद विस्तरतो मम ।

कुत्र केन कदा जाप्यं किं यजाप्यं कथं कथम् ॥ २८॥


उवाच शम्भुस्तत्सर्वं पार्वत्या विनयोदितम् ।

श्रीशिव उवाच ।

श्रुणु पार्वति वक्ष्यामि समाहितमनाविलम् ॥ २९॥


धर्मार्थकाममोक्षाणामिदमेव परायणम् ।

हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम् ॥ ३०॥


पुत्रमित्रकलत्रादिसर्वसन्तोषसाधनम् ।

वेदशास्त्रादिविद्यानां निधानं परमं हि तत् ॥ ३१॥


सङ्गीतशास्त्रसाहित्यसत्कवित्वविधायकम् ।

बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम् ॥ ३२॥


सर्वसन्तोषकरणं सर्वदुःखनिवारणम् ।

शत्रु संहारकं शीघ्रं यशःकीर्तिविवर्धनम् ॥ ३३॥


अष्टसंख्या महारोगाः सन्निपातास्त्रयोदश ।

षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगकाः ॥ ३४॥


अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि ।

अशीतिर्वातरोगाश्च चत्वारिशत्तु पैत्तिकाः ॥ ३५॥


विंशतिश्लेष्मरोगाश्च क्षयचातुर्थिकादयः ।

मन्त्रयन्त्रकुयोगाद्याः कल्पतन्त्रादिनिर्मिताः ॥ ३६॥


ब्रह्मराक्षसवेतालकूष्माण्डादिग्रहोद्भवाः ।

सङ्गजाः देशकालस्थास्तापत्रयसमुत्थिताः ॥ ३७॥


नवग्रहसमुद्भूता महापातकसम्भवाः ।

सर्वे रोगाः प्रणश्यन्ति सहस्रावर्तनाद्ध्रुवम् ॥ ३८॥


अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत् ।

अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत् ॥ ३९॥


अयुतत्रितयाच्चैव खेचरत्वं प्रजायते ।

सहस्रादयुतादर्वाक् सर्वकार्याणि साधयेत् ॥ ४०॥


लक्षावृत्या कार्यसिद्धिर्भवेत्येव न संशयः ॥ ४१॥


विषवृक्षस्य मूलेषु तिष्ठन् वै दक्षिणामुखः ।

कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम् ॥ ४२॥


औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते ।

श्रीवक्षमूले श्रीकामी तिन्तिणी शान्तिकर्मणि ॥ ४३॥


ओजस्कामोऽश्वत्थमूले स्त्रीकामैः सहकारके ।

ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभिः ॥ ४४॥


धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ।

देवालये सर्वकामैस्तत्काले सर्वदर्शितम् ॥ ४५॥


नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ।

युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् ॥ ४६॥


कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् ।

ज्वरापस्मारकुष्ठादितापज्वरनिवारणम् ॥ ४७॥


यत्र यत्स्यात्स्थिरं यद्यत्प्रसन्नं तन्निवर्तते ।

तेन तत्र हि जप्तव्यं ततः सिद्धिर्भवेद्ध्रुवम् ॥ ४८॥


इत्युक्त्वान् च शिवो गौर्ये रहस्यं परमं शुभम् ।

यः पठेत् वज्रकवचं दत्तात्रेयोसमो भवेत् ॥ ४९॥


एवं शिवेन कथितं हिमवत्सुतायै

      प्रोक्तं दलादमुनयेऽत्रिसुतेनपूर्वम् ।

यः कोऽपि वज्रकवचं पठतीह लोके

      दत्तोपमश्चरति योगिवरश्चिरायुः ॥ ५०॥


॥ इति श्रीरुद्रयामले हिमवत्खण्डे मन्त्रशास्त्रे उपासनाखण्डे

शिवविजयसिद्धान्ते उमामहेश्वरसंवादे

श्रीदत्तात्रेयवज्रकवचस्तोत्रं सम्पूर्णम् ॥


॥ श्रीदत्तात्रेयार्पणमस्तु ।

Tuesday, 14 October 2025

Diwali 🎇 Green Phatake awareness

*दिवाली इन्फो काम की 7 बातें*
🌟
*ग्रीन पटाखे ही खरीदें, ऐसे पहचानें*

दिवाली पर परेशानी का बड़ा कारण बनता है धुआं और प्रदूषण। ऐसे में ग्रीन पटाखे बेहतर विकल्प हैं। लेकिन जानकारी के अभाव में बाजार में कम क्वालिटी वाले पटाखे ही ज्यादा बिकते हैं। 🪄ग्रीन पटाखे की पहचान इन तरीकों से कर सकते हैं।

*QR कोड अनिवार्य* असली ग्रीन पटाखों पर QR कोड प्रिंट होता है। इसे मोबाइल से स्कैन करने पर जानकारी मिलती है। जिन पटाखों पर QR कोड नहीं है, वे असली ग्रीन पटाखे नहीं हैं। पैकेट पर "ग्रीन" लिखा होना भी गारंटी नहीं है।

*CSIR-NEERI प्रमाण:* गूगल लेंस से QR स्कैन करने पर CSIR-NEERI का सर्टिफिकेशन दिखेगा। लिंक न खुले या अजीब टेक्स्ट दिखे, तो समझें पटाखा नकली है।

*कम प्रदूषणः* ग्रीन पटाखे सामान्य पटाखों की तुलना में लगभग 30% कम प्रदूषण करते हैं। ये पटाखे सिर्फ CSIR-NEERI से लाइसेंस प्राप्त फैक्ट्रियों में ही बनाए जाते हैं।

*कम धुआं और आवाज* इनमें खास रसायन मिलाए जाते हैं। जिससे धुआं और आवाज दोनों सामान्य पटाखों से कम होते हैं।

*सरकारी निगरानी* इनकी बिक्री और वितरण पर सरकार की सीधी निगरानी होती है। वहीं बिना लाइसेंस वाले पटाखे असली ग्रीन नहीं होते। कई बार खतरनाक भी साबित होते हैं।

*निर्माता की जानकारी* असली ग्रीन पटाखों के पैकेट पर मैन्युफैक्चरर का नाम, पता और लाइसेंस नंबर साफ लिखा होगा। नकली पैकेट पर ये डिटेल अधूरी या धुंधली रहती है।

*QR स्कैन रिजल्ट* असली QR स्कैन करने पर केवल प्रमाणन ही नहीं, बल्कि बैच संख्या, निर्माण तिथि और कीमत भी दिखेगी। नकली पटाखों में यह जानकारी नहीं मिलती।

Share to aware all
@astrotechlab.com

Sunday, 28 September 2025

महाकाली स्तोत्र

महाकाली स्तोत्र, जिसे श्री काली कर्पूर स्तोत्र भी कहते हैं, एक अत्यंत प्रभावशाली स्तोत्र है। इसके पाठ से भक्तों को सभी प्रकार के भय, नकारात्मकता और शत्रुओं से मुक्ति मिलती है, और माता काली उन्हें साहस, शक्ति और सुरक्षा प्रदान करती हैं। 
विनियोग
ॐ अस्य श्री दक्षिणकालिका स्तोत्र मंत्रस्य श्रीभैरव ऋषिः, उष्णिक्छन्दः, श्रीदक्षिणकालिका देवता, ह्लीं बीजम्, हूं शक्तिः, नमः कीलकम्, सर्वसिद्धिप्राप्तये पाठे विनियोगः। 
ध्यानम्
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम्।
चतुर्भुजां खड्गमुण्डवराभयकरोद्यताम्॥
मुण्डमालाधरां देवीं ललज्जिह्वां दिगम्बराम्।
एवं ध्यायेत्कालीं महाकालस्य संमुखाम्॥ 
मूल स्तोत्र
नारायण उवाच-
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता॥ 
अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः।
त्वमेव संध्या गायत्री सावित्री च सरस्वती॥ 
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत्।
त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा॥ 
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने।
तथा संहृतिरूपाऽन्ते जगतोऽस्य जगन्मये॥ 
महाविद्या महामाया महामेधा महास्मृतिः।
महामोहा च भवती महादेवी महेश्वरी॥ 
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी।
कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा॥ 
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिस्त्वं बोधलक्षणा।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षान्तिरेव च॥
खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।
शंखिनी चापिनी बाणा भुशुण्डी परिघायुधा॥ 
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी।
परापराणां परमा त्वमेव परमेश्वरी॥
यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाऽखिलात्मिके।
तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयसे मया॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ 
लाभ
इस स्तोत्र का पाठ करने से कई लाभ होते हैं: 
  • यह भय और नकारात्मकता को दूर करता है।
  • यह साहस, शक्ति और सुरक्षा प्रदान करता है।
  • यह आध्यात्मिक ज्ञान, मानसिक शांति और मोक्ष की प्राप्ति में सहायक है।
  • यह जीवन में सफलता और समृद्धि लाता है। 
Visit: www.astrotechlab.com

Sunday, 21 September 2025

नवरात्रि की दुर्गा स्तोत्र


नवरात्रि की दुर्गा स्तोत्र

शैलपुत्री माहिमाः

वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् । वृषारुढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥

ब्रह्मचारिणी माहिमाः

दधाना करपद्माभ्यामक्षमालाकमण्डलू । स्वहस्ते विभ्रते वाणी भ्रमराम्भोरुहाक्षताम् ॥

चंद्रघंटा माहिमाः

पटाम्बर परिधानां मृदुहास्यां मनोहराम् । कोटिकिरण भूषितां कामधुक्ताम् चंद्रघंटाम् ॥

कूष्मांडा माहिमाः

कूष्माण्डा शुभदास्तु श्वेते वृषे समारुढा । श्वेताम्बर धरा शुद्धा नन्दगोपसुता प्रसीदतु ॥

स्कंदमाता माहिमाः

पलाशपुष्प संकाशां देवीं स्कन्दमातरम् । शुभदास्तु सदा देवी स्कन्दमाता यशस्विनी ॥

कात्यायनी माहिमाः

चामुण्डा शुभदास्तु चण्डमुण्ड विनाशिनी । कात्यायनी महामाये महाकाली महाशक्ति ॥

कालरात्रि माहिमाः

कालरात्रि शुभदास्तु कालिका परमेश्वरी । कालरात्रि महामाये महाकाली महाशक्ति ॥

महागौरी माहिमाः

श्वेते वृषे समारुढा श्वेताम्बर धरा शुचिः । महागौरी महादेवी महालक्ष्मी महाशक्ति ॥

सिद्धिदात्री माहिमाः

क्लीं सिद्धिदात्री देवी प्रसीदतु मयि भक्तः । सिद्धिदात्री महादेवी महालक्ष्मी महाशक्ति ॥

ll श्री दुर्गापन्मस्तु ll


www.astrotechlab.com

Saturday, 9 August 2025

Rudrashtak : रुद्राष्टक

रुद्राष्टक 



नमामीशमीशान-निर्वाणरूपम्, विभु व्यापकं ब्रह्मवेद-स्वरूपम् ।

अजं निर्गुणं निर्विकल्पं निरीहम्, चिदाकाशमाकशवासं भजे हम् ।१।

निराकारं ओंकारमूलं तुरीयम्, गिराज्ञान गोती-तमीशं गिरीशम् ।

करालं महाकाल-कालं कृपालम्, गुणागार संसार-पारं नतोहम् ।२।

तुषाराद्रि-संकाश-गौर गम्भीरम्, मनोभूत-कोटि-प्रभासी शरीरम् ।

स्फुरन्मौलि-कल्लोलिनी चारूगंगा, लसद् भालबालेन्दु कण्ठे भुजडगा ।३।

चलत्कुण्डलं भू सुनेत्रं विशालम्, प्रसन्नाननं नीलकण्ठं दयालम् ।

मृगाधीश-चर्माम्बरं मुण्डमालम्, प्रियं शंकरं सर्वनाथं भजामि ।४।

प्रचण्ड प्रकृष्टं प्रगल्भं परेशम्, अखण्ड अजं भानुकोटि-प्रकाशम् ।

त्रयःशूल-निर्मूलनं शूलपातणिम्, भजेहं भवानीपति भावगम्यम् ।५।

कलातीत-कल्याण-कल्पान्तकारी, सदा सज्जनानन्ददाता पुरारि : ।

चिदानन्द सन्दोह मोहापहारी, प्रसीद प्रसीद प्रभो मन्मथारी : १६।

न यावद्उमानाथ-पादारविन्दम्, भजन्तीह लोके परे वा नराणाम् ।

व तावत्सुख शान्ति-सन्ताप-नाशम्, प्रसीद प्रभो ! सर्वभूताधिवासम् ।9।

न जानामि योग जपं नैव पूजाम्, नतोहं सदा सर्वदा शम्भु ! तुभ्यम् ।

जरा-जन्म-दुःखोघ-तातप्यमानम्, प्रभो ! पाहि आपन्नमामीश शम्भी ।८।

रुद्राष्टक मिंद प्रोक्तं विप्रेण हरतोषये, ये पठन्ति परा भक्त्या तेषां शम्भु प्रसीदति ।।


Monday, 16 December 2024

Ustad jhakir husen life journey


Ustad Zakir Hussain, born on March 9, 1951, in Mumbai, India, was a renowned tabla virtuoso and composer. He was the eldest son of Ustad Alla Rakha, a legendary tabla player, and began his formal training under his father's guidance at a young age. By the age of seven, Zakir was performing publicly, and he embarked on his professional career at 12, touring and showcasing his prodigious talent. 

In the late 1960s, Zakir moved to the United States, where he collaborated with various Western musicians, significantly contributing to the fusion of Indian classical music with other genres. In 1975, he co-founded the band Shakti with guitarist John McLaughlin, blending Indian music with jazz elements. 

Throughout his career, Zakir received numerous accolades, including the Padma Shri in 1988 and the Padma Bhushan in 2002, recognizing his exceptional contributions to music. In 1992, he won a Grammy Award for Best World Music Album for "Planet Drum," a collaborative project with Mickey Hart. 

Zakir Hussain passed away on December 15, 2024, in San Francisco, California, at the age of 73, due to complications arising from idiopathic pulmonary fibrosis. 

His legacy continues to inspire musicians worldwide, reflecting a life dedicated to the art of tabla and the global promotion of Indian classical music.

Download Our Free App

श्रीदत्तात्रेयवज्रकवचम्

श्रीदत्तात्रेयवज्रकवचम्           श्रीगणेशाय नमः ।         श्रीदत्तात्रेयाय नमः । ऋषय ऊचुः । कथं सङ्कल्पसिद्धिः स्याद्वेदव्यास क...